HBSE Class 10 Sanskrit Question Paper 2024 Answer Key

Haryana Board (HBSE) Class 10 Sanskrit Question Paper 2024 Answer Key

खण्डः ‘क’ (अपठितावबोधनम्)

1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि यथानिर्देशं संस्कृतेन लिख्यन्ताम्-
यः जनः धार्मिकः विनीतः परोपकारी सदाचारी च भवति, स सज्जनः कथ्यते। सज्जनः परेषाम् उपकारं करोति, सदा परेषां दुःखे दुःखी भवति। स यथा वदति तथैव करोति, स यथा करोति तथैव वदति। तस्य वचने कार्ये च एकता भवति। स परेषाम् उपकारं धर्मं मन्यते। स सर्वेषु दयां करोति। स सुखे अति हर्ष न प्राप्नोति, न च दुःखे अधिकं खेदम् अनुभवति। स सदा प्रियं हितं च वचनं वदति। स विपत्तौ धैर्यम् आश्रयते, सम्पत्तौ विनीतः भवति, यशसि रुचिं करोति, सभासु च मधुरं भाषणं ददाति। तस्मात् सज्जनः सदैव वन्दनीयः भवति।
प्रश्नाः –
(अ) एकपदेन उत्तरं दीयताम् (केवलं प्रश्नद्वयम्)- (2 × 1 = 2 अंक)
(क) परेषाम् उपकारं कः करोति?
उत्तर – सज्जनः

(ख) सज्जनः विपत्तौ किम् आश्रयते?
उत्तर – धैर्यम्

(ग) सज्जनः सदैव कीदृशः भवति?
उत्तर – वन्दनीयः

(ब) पूर्णवाक्येन उत्तरं दीयताम् (केवलं प्रश्नद्वयम्)- (2 × 2 = 4 अंक)
(क) कः सज्जनः कथ्यते?
उत्तर – यः जनः धार्मिकः विनीतः परोपकारी सदाचारी च भवति, स सज्जनः कथ्यते।

(ख) सज्जनः किं धर्म मन्यते?
उत्तर – स परेषाम् उपकारं धर्मं मन्यते।

(ग) सज्जनः कीदृशं वचनं वदति?
उत्तर – सदा प्रियं हितं च वचनं वदति।

(स) अस्य अनुच्छेदस्य उपयुक्तं शीर्षकं संस्कृतेन लिख्यताम्। (1 अंक)
उत्तर – सज्जनः

(द) यथानिर्देशम् उत्तरं लिख्यताम् (केवलं प्रश्नत्रयम्)- (3 × 1 = 3 अंक)
(i) ‘अपकारम्’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(क) उपकारम्
(ख) परेषाम्
(ग) धार्मिकम्
(घ) स्वीकारम्
उत्तर – (क) उपकारम्

(ii) ‘स सदा प्रियं हितं च वचनं वदति’ इत्यत्र ‘वदति’ क्रियायाः कर्तृपदं किम्?
(क) सदा
(ख) हितम्
(ग) स
(घ) च
उत्तर – (ग) स

(iii) ‘सदा परेषां दुःखे दुःखी भवति’ इत्यत्र क्रियापदं किम्?
(क) परेषाम्
(ख) दुःखे
(ग) भवति
(घ) दुःखी
उत्तर – (ग) भवति

(iv) ‘सज्जनः सदैव वन्दनीयः भवति’ इत्यत्रं ‘सज्जनः’ पदस्य विशेषणं किम् अस्ति?
(क) सदा
(ख) एव
(ग) भवति
(घ) वन्दनीयः
उत्तर – (घ) वन्दनीयः

खण्डः ‘ख’ (रचनात्मक-कार्यम्)

2. (क) भवान् वर्चस्वः। स्वविद्यालयस्य वर्णनं कुर्वन् मित्रं प्रति लिखितं पत्रं मञ्जूषागतपदैः पूर्य्यताम्- (4 अंक)
परीक्षाभवनम्
23.03.20xx
प्रियमित्र अंशुल!
सप्रेम नमः।
अत्र कुशलं तत्रास्तु। अहम् अधुना स्वविद्यालयस्य वर्णनं कर्तुम् (i) ………….। मम विद्यालयस्य भवनम् अतीव (ii) …. अस्ति। अस्य (iii) ………….. अपि विशालं हरितं चास्ति। सर्वे (iv) …………. परिश्रमशीलाः छात्राश्च अनुशासिताः सन्ति। विस्तरेण पुनः लेखिष्यामि।
भवतः मित्रम्
वर्चस्वः।
[मञ्जूषा– क्रीडाप्रांगणम्, शिक्षकाः, सुन्दरम्, इच्छामि]
उत्तर – (i) इच्छामि, (ii) सुन्दरम्, (iii) क्रीडाप्रांगणम्, (iv) शिक्षकाः

(ख) प्रदत्तचित्रं दृष्ट्वा मञ्जूषागतपदैः रिक्तस्थानानि पूर्य्यन्ताम्- (4 अंक)

[मञ्जूषा– बालाः, मयूरः, जन्तवः, जन्तुशालायाः]
(i) इदं …………. चित्रम् अस्ति।
उत्तर – जन्तुशालायाः

(ii) पञ्जरेषु …………. वर्तन्ते।
उत्तर – जन्तवः

(iii) जन्तून् दृष्ट्वा …………. प्रसीदन्ति।
उत्तर – बालाः

(iv) अस्माकं राष्ट्रियः पक्षी ………… नृत्यति।
उत्तर – मयूरः

खण्डः ‘ग’ (पठितावबोधनम्)

3. प्रदत्तगद्यांशस्य हिन्दीभाषया सप्रसङ्ग सरलार्थः लिख्यताम्- (4 अंक)
अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने सा एक व्याघ्रं ददर्श।
उत्तर – प्रस्तुत गद्यांश हमारी पाठयपुस्तक ‘शेमुषी भाग-2’ के ‘बुद्धिर्बलवती सदा’ पाठ से लिया गया है। इस गद्यांश मे बताया गया है कि देउल नाम का गाँव था। वहाँ राजसिंह नाम का राजपुत्र रहता था। एक बार किसी जरूरी काम से उसकी पत्नी बुद्धिमती दोनों पुत्रों के साथ पिता के घर की तरफ चली गई। रास्ते में घने जंगल में उसने एक बाघ को देखा।

अथवा

एकः सिंहः सुखेन विश्राम्यते, तदैव एकः वानरः आगत्य तस्य पुच्छ धुनाति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति, परं वानरस्तु कूर्दित्वा वृक्षमारूढः। तदैव अन्यस्मात् वृक्षात् अपरः वानर: सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।
उत्तर – प्रस्तुत गद्यांश हमारी पाठयपुस्तक ‘शेमुषी भाग-2’ के ‘सौहार्दं प्रकृतेः शोभा’ पाठ से लिया गया है। इस गद्यांश मे बताया गया है कि एक शेर खुशी से आराम कर रहा है तभी एक बंदर आता है और उसकी पूंछ को घुमाता है। क्रोधित शेर ने उस पर हमला करने की कोशिश की लेकिन बंदर उछल कर पेड़ पर चढ़ गया। तभी दूसरे पेड़ से एक और बंदर नीचे आकर शेर का कान खींचता है और वापस पेड़ पर चढ़ जाता है।

4. प्रदत्तपद्यांशस्य हिन्दीभाषया सप्रसंङ्ग सरलार्थः लिख्यताम्- (4 अंक)
कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्,
वाष्पयानमाला संधावति वितरन्ती ध्वानम्।
यानानां पङ्क्तयो हयनन्ताः कठिनं संसरणम्,
शुचि पर्यावरणम् ……………………।।
उत्तर – प्रस्तुत पद्यांश हमारी पाठयपुस्तक ‘शेमुषी भाग-2’ के ‘शुचिपर्यावरणम्’ पाठ से लिया गया है। इस पद्यांश मे बताया गया है कि सैकड़ों मोटर गाड़ियां काजल जैसा काला धुआं छोड़ती हैं। रेलगाड़ियां कोलाहल करती हुई दोड़ती हैं। वाहनों की अनंत पंक्तियां हैं। इसलिए यहां चलना भी कठिन है।

अथवा

गुणी गुणं वेत्ति न वेत्ति निर्गुणो
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः।।
उत्तर – प्रस्तुत पद्यांश हमारी पाठयपुस्तक ‘शेमुषी भाग-2’ के ‘सुभाषितानी’ पाठ से लिया गया है। इस पद्यांश मे बताया गया है कि गुणवान् व्यक्ति गुण के महत्व को जानता है गुणहीन नहीं जानता। बलवान् व्यक्ति बल के महत्व को जानता है बलहीन (निर्बल) नहीं जानता है। कोयल वसन्त ऋतु के महत्व गुण को जानती है, कौआ नहीं जानता है और हाथी सिंह के बल को जानता है चूहा नहीं जानता है।

5. अधोलिखितासु सूक्तिषु कयोश्चन द्वयोः भावार्थः हिन्दीभाषया लिख्यताम्- (2 × 2 = 4 अंक)
(क) आचारः परमो धर्मः।
उत्तर – आचार (व्यवहार) सबसे बड़ा धर्म है। इसका मतलब है कि एक व्यक्ति का आचरण और उसकी नैतिकता उसके धर्म का मुख्य आधार होती है। जो व्यक्ति अच्छे आचरण से जीवन जीता है, वह सही मार्ग पर चलता है और समाज में आदर्श स्थापित करता है।

(ख) शिशुजनो वयोऽनुरोधाद् गुणमहतामपि लालनीय एव।
उत्तर – शिशु या बालक को उसकी आयु के अनुरूप ही शिक्षा और आचरण देना चाहिए। भले ही वह महान गुणों से परिपूर्ण हो, उसे सरल और आकर्षक रूप में प्रस्तुत करना चाहिए ताकि वह उसे समझ सके और आत्मसात कर सके। बालकों की समझ और मानसिक विकास के हिसाब से ही उन्हें अच्छे गुण सिखाने चाहिए।

(ग) जननी तुल्यवत्सला।
उत्तर – माता सभी के प्रति समान रूप से स्नेह और वात्सल्य रखने वाली होती है। वह अपने सभी संतानों को बिना भेदभाव के प्रेम और देखभाल करती है।

(घ) क्रोधो हि शत्रुः प्रथमो नराणाम्।
उत्तर – क्रोध मनुष्यों का सबसे पहला और बड़ा शत्रु है। यह विवेक को नष्ट कर देता है और व्यक्ति को गलत कार्यों की ओर प्रेरित करता है, जिससे उसका जीवन संकट में पड़ सकता है। क्रोध पर नियंत्रण रखना आवश्यक है।

अथवा

अधोलिखितश्लोकस्य अन्वयः मञ्जूषागतपदैः पूर्य्यताम्- (4 अंक)
पिता यच्छति पुत्राय, बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे, इत्युक्तिस्तत्कृतज्ञता।।
अन्वय: –
पिता (i) …….…. बाल्ये महत् (ii) .………. यच्छति,
अस्य पिता किं (iii) ……… तेपे, इत्युक्तिः तत् (iv) ………।।
[मञ्जूषा – कृतज्ञता, पुत्राय, विद्याधनम्, तपः]
उत्तर – (i) पुत्राय, (ii) विद्याधनम्, (iii) तपः, (iv) कृतज्ञता

6. अधोलिखितं गद्यांशमाधृत्य पूर्णवाक्येन संस्कृतभाषया उत्तराणि लिख्यन्ताम्- (3 × 1 = 3 अंक)
विचित्रा दैवगतिः। तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः। तत्र निहिताम् एकां मञ्जूषाम् आदाय पलायितः। चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
प्रश्नाः (केवलं प्रश्नत्रयम्) –
(क) दैवगतिः कीदृशी अस्ति?
उत्तर – दैवगतिः विचित्रा अस्ति।

(ख) चौरः कुत्र प्रविष्टः?
उत्तर – चौरः गृहाभ्यन्तरं प्रविष्टः।

(ग) चौरः किम् आदाय पलायितः?
उत्तर – चौरः मञ्जूषाम् आदाय पलायितः।

(घ) पादध्वनिना कः प्रबुद्धः?
उत्तर – पादध्वनिना अतिथिः प्रबुद्धः।

7. अधोलिखितं पद्यमाधृत्य संस्कृतभाषया पूर्णवाक्येन उत्तराणि लिख्यन्ताम्- (2 × 1 = 2 अंक)
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।।
प्रश्नाः (केवलं प्रश्नद्वयम्) –
(क) मनुष्याणां महान् रिपुः किम् अस्ति?
उत्तर – मनुष्याणां महान् रिपुः आलस्यं अस्ति।

(ख) उद्यमसमः कः नास्ति?
उत्तर – उद्यमसमः बन्धुः नास्ति।

(ग) मनुष्यः किं कृत्वा नावसीदति?
उत्तर – नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

8. रेखाङ्कितपदानि आधृत्य कोष्ठकपदैः प्रश्ननिर्माणं क्रियताम् (केवलं प्रश्नत्रयम्)- (3 × 1 = 3 अंक)
(क) चातकः वने वसति। (कुत्र / के)
उत्तर – कुत्र

(ख) न्यायाधीशः बंकिमचन्द्रः आसीत्। (कः / के)
उत्तर – कः

(ग) धेनूनाम् माता सुरभिः आसीत्। (केषाम् / कासाम्)
उत्तर – कासाम्

(घ) तदिदानीं भूकम्पकारणं विचारणीयं तिष्ठति। (किम् / कः)
उत्तर – किम्

9. प्रश्नपत्रस्य श्लोकान् विहाय ‘शेमुषी-2’ पाठ्यपुस्तकस्य एकः श्लोकः शुद्धं पूर्ण च संस्कृतभाषया लिख्यताम्। (4 अंक)
उत्तर – धर्मे अर्थे च कामे च मोक्षे च भरतर्षभ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्।।

खण्डः ‘घ’ (अनुप्रयुक्त-व्याकरणम्)

10. (क) यणसन्धेः अथवा विसर्गसन्धेः हिन्दीभाषया परिभाषा संस्कृतभाषया च उदाहरणं लिख्यताम्। (2 अंक)
उत्तर : यण संधि – जब संधि करते समय इ, ई के साथ कोई अन्य स्वर हो तो ‘य्’ बन जाता है, जब उ, ऊ के साथ कोई अन्य स्वर हो तो ‘व्’ बन जाता है, जब ऋ के साथ कोई अन्य स्वर हो तो ‘र’ बन जाता है। जैसे: अधि + आय = अध्याय, इति + आदि = इत्यादि
• विसर्ग सन्धि – विसर्ग का स्वर या व्यंजन के साथ मेल होने पर जो परिवर्तन होता है, उसे विसर्ग संधि कहते है। जैसे: मनः + रथ = मनोरथ

(ख) अव्ययीभावसमासस्य अथवा द्वन्द्वसमासस्य हिन्दीभाषया परिभाषा संस्कृतभाषया च उदाहरणं लिख्यताम्। (2 अंक)
उत्तर : अव्ययीभाव समास – जिस समास में पहला शब्द अव्यय होता है और वह प्रधान होता है, उसे अव्ययीभाव समास कहते हैं। जैसे: यथाशक्ति – शक्ति के अनुसार
• द्वन्द्व समास – जिस समास में प्रथम और द्वितीय दोनों पद प्रधान होते हैं उसे द्वन्द्व समास कहते हैं। जैसे: आजकल – आज और कल

(ग) कर्मकारकस्य अथवा अपादानकारकस्य हिन्दीभाषया परिभाषा संस्कृतभाषया च उदाहरणं लिख्यताम्। (2 अंक)
उत्तर : कर्म कारक – कर्ता के द्वारा संपादित क्रिया या किए हुए काम का प्रभाव जिस व्यक्ति या वस्तु पर पड़े उसे कर्म कारक कहते है। कर्म कारक का चिन्ह ‘को’ है। जैसे: राम ने रावण को मारा। यहाँ ‘रावण को’ कर्म है।
• अपादान कारक – संज्ञा के जिस रूप से एक वस्तु का दूसरी से अलग होना पाया जाए वह अपादान कारक कहलाता है। इसका विभक्ति-चिह्न ‘से’ है। जैसे: पेड़ से आम गिरा

11. यथानिर्दिष्टं शब्दरूपाणि लिख्यन्ताम् (केवलं प्रश्नचतुष्टयम्)- (4 × 1 = 4 अंक)
(i) ‘राम’ शब्दस्य – चतुर्थी – एकवचनम्।
उत्तर – रामाय

(ii) ‘मुनि’ शब्दस्य – तृतीया – बहुवचनम्।
उत्तर – मुनिभि:

(iii) ‘पितृ’ शब्दस्य – द्वितीया – एकवचनम्।
उत्तर – पितरम्

(iv) ‘भगवत्’ (पुं०) शब्दस्य – षष्ठी – द्विवचनम्।
उत्तर – भगवतो:

(v) ‘नदी’ शब्दस्य – द्वितीया – बहुवचनम्।
उत्तर – नदी:

(vi) ‘किम्’ (नपुं०) शब्दस्य – प्रथमा – एकवचनम्।
उत्तर – किम्

12. यथानिर्दिष्टं धातुरूपाणि लिख्यन्ताम् (केवल प्रश्नचतुष्टयम्)- (4 × 1 = 4 अंक)
(i) ‘भू’ धातोः – लृट्लकारः – प्र० पु० – एकवचनम्।
उत्तर – भविष्यति

(ii) ‘हस्’ धातोः – लोट्लकारः – उ० पु० – बहुवचनम्।
उत्तर – हसाम

(iii) ‘गम्’ धातोः – विधिलिङ् – म० पु० – द्विवचनम्।
उत्तर – गच्छेताम्

(iv) ‘हन्’ धातोः – लट्लकारः – प्र० पु० – एकवचनम्।
उत्तर – हन्ति

(v) ‘याच्’ धातोः – लृट्लकारः – म० पु० – बहुवचनम्।
उत्तर – याचिष्यथ

(vi) ‘सेव्’ धातोः – लोट्लकारः – उ० पु० – द्विवचनम्।
उत्तर – सेवेवहि

13. अधोलिखितवाक्येषु कोष्ठकाद् उचितविभक्तिकं पदं चित्वा लिख्यताम् (केवलं प्रश्नचतुष्टयम्)- (4 × 1 = 4 अंक)
(i) स ………….. निष्क्रम्य बहिः आगच्छत्। (गृहात् / गृहेण)
उत्तर – गृहात्

(ii) गृहस्थः …………. आश्रयं प्रायच्छत्। (अतिथये / अतिथेः)
उत्तर – अतिथये

(iii) तौ ………… प्रति प्रस्थितौ। (न्यायाधिकारिणम् / न्यायाधिकारिणे)
उत्तर – न्यायाधिकारिणम्

(iv) ………… विना जीवनं न सम्भवति। (जलस्य / जलम्)
उत्तर – जलम्

(v) तस्मै श्रीमते …………. नमः। (गुरुम् / गुरवे)
उत्तर – गुरवे

14. अधोलिखितवाक्येषु कोष्ठकात् समुचितम् अव्ययपदं चित्वा लिख्यताम् (केवलं प्रश्नद्वयम्)- (2 × 1 = 2 अंक)
(i) इदानीं वायुमण्डलं ………….. प्रदूषितम् अस्ति। (भृशम् / बहिः)
उत्तर – भृशम्

(ii) यत्र हरीतिमा, …………. शुचि पर्यावरणम्। (तत्र / कुत्र)
उत्तर – तत्र

(iii) अस्मिन् प्रदूषणे …………. श्वासरोगाः जायन्ते। (एव / न)
उत्तर – एव

15. प्रदत्तपदेषु उपसर्गान् चित्वा लिख्यताम् (केवलं प्रश्नद्वयम्)- (2 × 1 = 2 अंक)
(i) प्रविशति
उत्तर – प्र

(ii) अनुगच्छति
उत्तर – अनु

(iii) सुभाषितानि
उत्तर – सु

खण्डः ‘ङ’ (पाठाधारिताः बहुविकल्पीय प्रश्नाः)

16. प्रदत्तविकल्पेषु उत्तरं चित्वा लिख्यताम्- (16 × 1 = 16 अंक)
(i) ‘द्वौ + अपि’ इत्यस्य सन्धिपदम्।
(क) द्वौऽपि
(ख) द्वावपि
(ग) द्ववपि
(घ) द्वावापि
उत्तर – (ख) द्वावपि

(ii) ‘यदुक्तम्’ इत्यस्य विच्छेदः अस्ति।
(क) यत् + उक्तम्
(ख) यदा + उक्तम्
(ग) यदु + उक्तम्
(घ) यद् + उक्तम्
उत्तर – (क) यत् + उक्तम्

(iii) ‘मलेन सह’ इत्यस्य समस्तपदम्।
(क) समलः
(ख) सामलम्
(ग) मलयुक्तम्
(घ) समलम्
उत्तर – (घ) समलम्

(iv) ‘वाक्पटुः’ इत्यस्य विग्रहः अस्ति।
(क) वाचं पटुः
(ख) वाचि पटुः
(ग) वाचः पटुः
(घ) वाचे पटुः
उत्तर – (ख) वाचि पटुः

(v) ‘पुत्रः’ इत्यस्य पर्यायपदं नास्ति।
(क) तनयः
(ख) सुतः
(ग) सूनुः
(घ) जनकः
उत्तर – (घ) जनकः

(vi) ‘चित्तम्’ इत्यस्य पर्यायपदम् अस्ति।
(क) मानसम्
(ख) चरणम्
(ग) नयनम्
(घ) शिरः
उत्तर – (क) मानसम्

(vii) ‘सुलभः’ इत्यस्य विलोमपदम् अस्ति।
(क) अलभः
(ख) दुर्लभः
(ग) अलोभः
(घ) निर्लभः
उत्तर – (ख) दुर्लभः

(viii) ‘प्रथमः’ इत्यस्य विलोमपदम् अस्ति।
(क) अन्तः
(ख) अन्तिमः
(ग) प्रारम्भः
(घ) दशमः
उत्तर – (ख) अन्तिमः

(ix) ‘हन् + क्त’ इति प्रकृतिप्रत्यय-योगेन रूपं भुवति।
(क) हतः
(ख) हतवान्
(ग) हन्तः
(घ) हन्त
उत्तर – (क) हतः

(x) ‘गन्तुम्’ इत्यत्र प्रत्ययः अस्ति।
(क) ल्युट्
(ख) क्त
(ग) तुमुन्
(घ) तव्यत्
उत्तर – (ग) तुमुन्

(xi) ‘एकोनषष्टिः’ इत्यस्य संख्यापदं भवति।
(क) 69
(ख) 59
(ग) 79
(घ) 89
उत्तर – (ख) 59

(xii) ’45’ इत्यस्य संस्कृतपदम् अस्ति।
(क) चतुःपञ्चाशत्
(ख) पञ्चचत्वारिंशत्
(ग) पञ्चपञ्चाशत्
(घ) चतुश्चत्वारिंशत्
उत्तर – (ख) पञ्चचत्वारिंशत्

(xiii) ‘हृदयग्राही स्पर्शः’ इत्यत्र विशेष्यपदम् अस्ति।
(क) हृदय
(ख) ग्राही
(ग) हृदयग्राही
(घ) स्पर्शः
उत्तर – (घ) स्पर्शः

(xiv) ‘समरूपः कुटुम्बवृत्तान्तः’ इत्यत्र विशेषणपदम् अस्ति।
(क) समरूपः
(ख) सम
(ग) कुटुम्बवृत्तान्तः
(घ) वृत्तान्तः
उत्तर – (क) समरूपः

(xv) घटिकासमयः संस्कृतपदेन लिख्यताम्।

वर्चस्वः रात्रौ ………… वादने शेते।
(क) दश
(ख) नव
(ग) एक
(घ) द्वादश
उत्तर – (ख) नव

(xvi) घटिकासमयः संस्कृतपदेन लिख्यताम्।

स्वस्तिः प्रातः …………. वादने उतिष्ठति।
(क) चतुर्
(ख) पञ्च
(ग) षड्
(घ) द्वादश
उत्तर – (ख) पञ्च